जननी तुल्यवत्सला

जननी तुल्यवत्सला

जननी तुल्यवत्सला पाठ-परिचय

महाभारत भारतीय संस्कृति का एक बहुत ही महत्वपूर्ण ग्रंथ है। इसमें केवल भारत की संस्कृति ही नहीं झलकती अपितु भारतीय इतिहास का भी विशाल भंडार इस पुस्तक में विद्यमान है। महाभारत में अनेक ऐसे प्रसंग हैं जो आज के युग में भी उतने ही उपादेय हैं, जिसने कभी पहले थे। महाभारत के वनपर्व से ली गई यह कथा न केवल मनुष्यों के प्रति अपितु सभी जीव जन्तुओं के प्रति समदृष्टि पर बल देती है। समाज में असहाय, गरीब, दुर्बल लोगों अथवा जीवों के प्रति भी मां का स्नेह और उसकी ममता उतनी ही प्रगाढ़ होती है जितनी सबल लोगों के प्रति, यही इस पाठ का मुख्य संदेश है।

Sanskrit जननी तुल्यवत्सला Important Questions and Answers

जननी तुल्यवत्सला पठित-अवबोधनम्

1. निर्देशः-अधोलिखितं पाठ्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत
कश्चित् कृषकः बलीवाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि ? उच्यताम्” इति। सा च

विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः ।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ?’ इति प्रत्यवोचत्।

पाठ्यांश-प्रश्नोत्तर:
(अ) एकपदेन उत्तरत
(क) शरीरेण दुर्बलः कः आसीत् ?
(ख) पुत्रस्य दैन्यं दृष्ट्वा का रोदिति ?
उत्तराणि:
(क) बलीवर्दः,
(ख) माता सुरभिः ।

(आ) पूर्णवाक्येन उत्तरत
(क) कृषकः बलीवर्दाभ्यां किं कुर्वन्नासीत् ?
(ख) सुरभिः केषां माता अस्ति?
उत्तराणि:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ।
(ख) सुरभिः सर्वधेनूनां माता अस्ति।

(ई) निर्देशानुसारम्
उत्तरत
(क) पीडयति-इति क्रियापदस्य कर्तृपदं लिखत।

(ख) जानन्-अत्र कः प्रत्ययः प्रयुक्तः?
उत्तराणि
(क) कृषकः, (ख) शतृ।

हिन्दीभाषया पाठबोधः
शब्दार्था:-बलीवर्दाभ्याम् = (वृषभाभ्याम्) दो बैलों से। क्षेत्रकर्षणम् = (क्षेत्रस्य कर्षणम्) खेत की जुताई। जवेन = (तीव्रगत्या) तीव्रगति से। तोदनेन = (कष्टप्रदानेन) कष्ट देने से । नुद्यमानः = (बलेन नीयमानः) धकेला जाता हुआ, हाँका जाता हुआ। हलमूढ्वा = (हलम् आदाय) हल उठाकर, हल ढोकर। पपात = (भूमौ अपतत्) गिर गया। कृषीवलः = (कृषकः) किसान। उत्थापयितुम = उपरि नेतुम्) उठाने के लिए। वृषः (वृषभः) बैल। धेनूनाम् = (गवाम्) गायों की। नेत्राभ्याम् (चक्षुाम्, नयनाभ्याम्) दोनों आँखों से। अणि (नयनजलम्) आँसू। आविरासन् (आगताः) आने लगे, आए। सुराधिपः (सुराणां राजा, देवताओं के राजा (इन्द्र)। (देवानाम् अधिपः) उच्यताम् = (कथ्यताम्) कहें, कहा जाए। वासव = इन्द्रः, देवराजः) इन्द्र। कृच्छेण = (काठिन्येन) कठिनाई से। इतरमिव = (भिन्नम् इव दूसरों के समान। धरम् = (धुरम्) जुए को (गाड़ी के जुए का वह भाग। जो बैलों के कंधों पर रखा रहता है)। वोदुम् = (वहनाय योग्यम्) ढोने के लिए। प्रत्यवोचत = (उत्तरं दत्तवान्) जवाब दिया।

हिन्दी में अनुवाद- कोई किसान दो बैलों से अपना खेत की जुताई कर रहा था। उन दोनों बैलों में से एक शरीर से दुर्बल था और वह है तेज गति से चलने में असमर्थ था। इसीलिए किसान उस दुबले बैल को हाँकने वाली छड़ी से हाँक रहा था। वह बैल हल को लेकर जाने में असमर्थ था इसलिए खेत में गिर पड़ा। क्रोधित किसान ने उसको उठाने के लिए बहुत बार यत्न किया। तो भी बैल नहीं उठा।

भूमि पर गिरे हुए अपने पुत्र को देखकर सभी गायों की माता सुरभि की आंखों से आंसू गिर रहे थे। सुरभि की इस अवस्था को देखकर देवताओं के राजा इन्द्र ने सुरभि से पूछा – “हे कल्याणी! इस प्रकार क्यों रो रही हो? बताओ।” और उसने भी (उत्तर देते हुए कहा)

“देवताओं के राजा इन्द्र! आपने कभी अपने किसी परिवारजन का पतन होता हुआ नहीं देखा। (मैंने देखा है, इसीलिए) मैं अपने पुत्र का शोक मना रही हूं और इसी कारण मैं रो रही हूं ॥” ।

“हे इन्द्र! मैं अपने पुत्र की दीनता को देखकर रो रही हूँ। वह दीन (अति दुर्बल) है यह जानते हुए भी किसान उसे अनेक प्रकार से पीड़ित कर रहा है। वह बड़ी कठिनता से भार को उठा रहा है। वह दूसरे जुए को उठाने में समर्थ नहीं है। यह तो आप देख रहे हैं न।” – ऐसा उसने उत्तर दिया।

2. निर्देशः-अधोलिखितं पाठ्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् –

यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

“बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्-” गच्छ वत्से! सर्वं भद्रं जायेत।”


अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः। कृषक: हर्षतिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्॥

पाठ्यांश-प्रश्नोत्तर

(अ) एकपदेन उत्तरत
(क) केन पृष्टा सुरभिः प्रत्यवोचत्?
(ख) सर्वेष्वपत्येषु जननी कीदृशी भवति?
उत्तराणि:
(क) इन्द्रेण,
(ख) तुल्यवत्सला।

(आ) पूर्णवाक्येन उत्तरत
(क) सुरभिवचनं श्रुत्वा कस्य हृदयमद्रवत् ?
(ख) केन सह प्रवर्षः समजायत?
उत्तराणि:
(क) सुरभिवचनं श्रुत्वा विस्मितस्य आखण्डलस्य हृदयमद्रवत्।
(ख) चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।

(ई) निर्देशानुसारम् उत्तरत
(क) इन्द्रस्य-इति पदस्य अत्र कः पर्यायः ?
(ख) नीत्वा-अत्र कः प्रत्ययः प्रयुक्तः?
उत्तराणि:
(क) आखण्डलस्य,
(ख) क्त्वा।

Sanskrit जननी तुल्यवत्सला Textbook Questions and Answers

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कृषकः किं करोति स्म ? ।
(ख) माता सुरभिः किमर्थं अश्रूणि मुञ्चति स्म ?
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?
(घ) मातुः अधिका कृपा कस्मिन् भवति ?
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् किं कृतवान् ?
(च) जननी कीदृशी भवति ?
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते ? ।
उत्तराणि:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः भूमौ पतिते स्वपुत्रं दृष्ट्वा अश्रूणि मुञ्चति स्म।
(ग) सुरभिः उत्तरं ददाति- हे इन्द्र! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(घ) मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् प्रचण्ड-वर्षां कृतवान् ।
(च) जननी तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् सुरभि-इन्द्रयोः संवादः विद्यते।

प्रश्न 2.
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः करुत
क स्तम्भः ख स्तम्भः
(क) कृच्छ्रेण (i) वृषभः
(ख) चक्षुभ्याम् (ii) वासवः
(ग) जवेन (iii) नेत्राभ्याम्
(घ) इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम् (vi) काठिन्येन
(छ) बलीवर्दः (vii) सुताः
उत्तराणि:
क स्तम्भः ख स्तम्भः
(क) कृच्छ्रेण (vi) काठिन्येन
(ख) चक्षुभ्याम् (iii) नेत्राभ्याम्
(ग) जवेन (v) द्रुतगत्या
(घ) इन्द्रः (i) वासवः
(ङ) पुत्राः (vii) सुताः
(च) शीघ्रम् (iv) अचिरम्
(छ) बलीवर्दः (i) वृषभः

प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सः कृच्छ्रेण भारम् उद्वहति ।
(ख) सुराधिपः ताम् अपृच्छत् ।
(ग) अयम् अन्येभ्यो दुर्बलः।
(घ) धेनूनाम् माता सुरभिः आसीत्।
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्।
उत्तराणि:
(क) सः कथं भारम् उद्वहति?
(ख) कः ताम् अपृच्छत् ?
(ग) अयम् केभ्यो दुर्बल:?
(घ) केषाम् माता सुरभिः आसीत् ?
(ङ) कति पुत्रेषु सत्स्वपि सा दुःखी आसीत् ?

प्रश्न 4.
रेखांकितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत
(क) कृषक: क्षेत्रकर्षणं कुर्वन्+आसीत्।
(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
(गं) तथापि वृषः न+उत्थितः।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ?
(ङ) तथा+अपि+अहम् एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहूनि+अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लवः संजातः।
उत्तराणि:
(क) कृषकः क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) तयोः + एकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः नोत्थितः।
(घ) सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ?
(ङ) तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहून्यपत्यानि सन्ति।
(छ) सर्वत्र जल + उपप्लवः संजातः ।

प्रश्न 5.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
(घ) मे बहूनि अपत्यानि सन्ति।
(ङ) सः च ताम् एवम् असान्त्वयत्।
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति ।
उत्तराणि:
(क) सुरभिः- इति पदस्य कृते ।
(ख) सुरभिः- इति पदस्य कृते।
(ग) कृषकः- इति पदस्य कृते।
(घ) सुरभेः- इति पदस्य कृते।
(ङ) इन्द्रः- इति पदस्य कृते।
(च) सुरभेः- इति पदस्य कृते।

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा प्रकृति प्रत्यय विभागं कुरुतःयथा – सुरभिवचनं श्रुत्वा इन्द्रः विस्मितः । (श्रु+क्त्वा)
(क) बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः नेत्राभ्यां अश्रूणि आविरासन्।
(ग) सः दीनः इति जानन् अपि पीडयति।
(घ) धुरं वोढुं सः न शक्नोति।
(ङ) विशिष्य आत्मवेदनानुभवामि।
(च) वृषभो नीत्वा गृहमगात्।
उत्तराणि:
(क) कुर्वन् = कृ + शतृ।
(ख) दृष्ट्वा = दृश् + क्त्वा।
(ग) जानन् = कृ + शतृ।
(घ) वोढुम् = वह् + तुमुन् ।
(ङ) विशिष्य = वि + शिष् + ल्यप्।
(च) नीत्वा = नी + क्त्वा।

प्रश्न 7.
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत
क स्तम्भ ख स्तम्भ
(क) कश्चित् (i) वृषभम्
(ख) दुर्बलम् (ii) कृपा
(ग) क्रुद्धः , (iii) कृषीवल:
(घ) सहस्राधिकेषु (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च) विस्मितः (vi) पुत्रेषु
(छ) तुल्यवत्सला (vii) कृषक:
उत्तराणि-
क स्तम्भ ख स्तम्भ
(क) कश्चित् (vii) कृषकः
(ख) दुर्बलम् (i) वृषभम्
(ग) क्रुद्धः (iii) कृषीवलः
(घ) सहस्राधिकेषु (vi) पुत्रेषु
(ङ) अभ्यधिका (ii) कृपा
(च) विस्मितः (iv) आखण्डल:
(छ) तुल्यवत्सला (v) जननी

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *